प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तव : ।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥
सर्वे जन्तव: केवल प्रियवाक्येन सन्तोषं प्राप्नुवन्ति। अत: वयं मानवा: किमर्थं प्रियवाक्यानि न वदन्ति? अस्य सुभाषितस्य भावार्थ: मानवा: बुद्धिद्वारा उत्तमा: इति सर्वत्र मान्यता प्राप्नुवन्ति । तथापि ते सुवचनं, प्रियवचनं न वदन्ति। परन्तु प्रियवचनेन सर्वे सन्तोषं, आनन्दं च अनुभवन्ति। अत: अहंकारं तक्त्वा प्रियवाक्यानि वदनीयं इति सुभाषितकारस्य आशय: भवति।
No comments:
Post a Comment